||Sundarakanda ||

|| Sarga 59||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||


सुन्दरकाण्डम्
अथ एकोनषष्टितमस्सर्गः॥

एतदाख्याय तत्सर्वं हनुमान् मारुतात्मजः।
भूयः समुपचक्राम वचनं वक्तु मुत्तरम्॥1||

स॥ हनुमान् मारुतात्मजः एतत् सर्वं आख्याय भूयः उत्तरं वचनं वक्तुं समुपचक्रमे॥

Hanuman, the son of wind god, having narrated all of this, again started to say some more words.

सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः।
शीलमासाद्य सीताया मम च प्रवणं मनः॥2||

स॥राघवोद्योगः सुग्रीवस्य संभ्रमः सफलः । सीतायाः शीलं आसाद्य मम मनश्च प्रवणं॥

Rama's task, Sugriva's efforts have been successful. Seeing Sita's conduct my mind has developed devotion.

तपसा धारयेल्लोकान् क्रुद्धो वा निर्दहेदपि।
सर्वधाति प्रवृद्धोऽसौ रावणो राक्षसाधिपः॥3||
तस्य तां स्पृशतो गात्रं तपसा न विनाशितम्।
न तदग्निशिखा कुर्यात् संस्पृष्टा पाणिना सती॥4||
जनकस्यात्मजा कुर्याद्यत्क्रोध कलुषीकृता।

स॥असौ राक्षसाधिपः सर्वथा अतिप्रवृद्धः तपसा लोकान् निर्दहेत् ।कृद्धोवापि निर्दहेत् अपि॥ताम् स्पृशतः तस्य गात्रं तपसा न विनाशितं । क्रोधकलुषीकृता जनकस्य आत्मजा यत् कुर्यात् तत् पाणिना संस्पृष्ट सती अग्निशिखा नकुर्यात्॥

Ever rich in asceticism this king of Rakshasas can burn the whole world with the power of his penance. Even though (Sita was) angry he was not burnt ( because ever dutiful Sita will not act without Rama's permission). Because of the power of his penance he was not burnt though he touched her limbs. What the enraged Janaka's daughter can do even the flame of fire cannot do ( she did not since she wanted Rama to kill Ravana).

जाम्बवत्प्रमुखान् सर्वाननुज्ञास्य महाहरीन्॥5||
अस्मिन्नेवं गते कार्ये भवतां च निवेदिते।
न्यायं स्म सहवैदेह्या द्रष्टुं तौ पार्थिवात्मजौ॥6||

स॥भवताम् निवेदिते अस्मिन् कार्ये एवं गते जांबवत् प्रमुखान् महाहरीन् समनुज्ञाय वैदेह्या सह तौ पार्थिवात्मजौ द्रष्टुं न्यायं स्म॥

I have narrated what all has been completed , with the permission of Jambavan and others. It is better to see the king's sons ( Rama and Lakshmana) along with Sita.

अहमेकोपि पर्याप्तः सराक्षसगणां पुरी।
तां लंकां तरसा हन्तुं रावणं च महाबलम्॥7||
किं पुनस्सहितो वीरैर्बलवद्भिः कृतात्मभिः।
कृतास्त्रैः प्लवगैः शूरैः भवद्भिर्विजयैषिभिः॥8||

स॥ अह एकः अपि सराक्षसगणां तां लंकापुरीं महाबलं रावणं च तरसा हन्तुं पर्याप्तः॥बलवद्भिः कृतात्मभिः शूरैः विजयैषिभिः प्लवगैः भवद्भिः सहितः किं पुनः ॥

I am alone enough to destroy the city of Lanka , the great army , the Rakshasa warriors and even Ravana. What to speak of doing so with all of you who are strong wise accomplished heroic ones desiring victory.

अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम्।
सहपुत्त्रं वधिष्यामि सहोदरयुतं युधि॥9||

स॥ अहं तु युद्धे ससैन्यं सपुरस्सरं सहपुत्त्रं सहोदरयुतं रावणं वधिष्यामि ॥

I can kill Ravana along with his army , his sons, his brothers and his followers.

ब्राह्ममैन्द्रं च रौद्रं च वायुव्यं वारुणं तथा।
यदि शक्रजितोऽस्त्राणि दुर्निरीक्षाणि संयुगे॥10||
तान्यहं विधमिष्यामि हनिष्यामि च राक्षसान्।

स॥ ब्रह्मं इन्द्रं च रौद्रं च वायव्यं तथावारुणं शक्रजितः अस्त्राणि दुर्निरीक्षाणि यदि तानि संयुगे वधिष्यामि राक्षसान् हनिष्यामि च॥

Even if the weapons of Brahma, Indra ,Rudra. Vayu , Varuna which are difficult to see are used by Indrajit, I can kill and destroy them in a war.

भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धितम्॥11||
मयाsतुला विसृष्टा हि शैलवृष्टिर्निरन्तरा।
देवानपि रणे हन्यात् किं पुनः तान् निशाचरान्॥12||

स॥ भवताम् अभ्यनुज्ञातः मे विक्रमः तं रुणाद्धि। मया विसृष्टा अतुला निरन्तरा शैलवृष्टिः रणे देवान् अपि हन्यात् । तान् निशाचरान् किं पुअनः॥

If you permit me, I will shatter them with my valor. With ceaseless matchless shower of rocks in a war even the Devas will die, what to speak of the night creatures!

सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि।
न जाम्बवन्तं समरे कम्पये दरिवाहिनी॥13||

स॥ सागरं वेलां अतियादपि मन्दरः प्रचलेदपि समरे अरिवाहिनि जाम्बवतं न कम्पयेत् ॥

The ocean may exceed its limits, the mount Mandara may be shaken but Jambavan cannot be shaken in a war.

सर्वराक्षस संघानां राक्षसा ये च पूर्वका।
अलमेको विनाशाय वीरो वालिसुतः कपिः॥14||
पनस स्योरुवेगेन नीलस्य च महात्मनः।
मन्दरोऽप्यवसीर्येत किं पुनर्युधि राक्षसाः॥15||
स देवासुर यक्षेषु गन्धर्वोरग पक्षिसु।
मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा॥16||

स॥ वीरः वालिसुतः कपिः एकः सर्वराक्षसंघानां पूर्वकाः ये विनासाय अलम्॥पनसस्य महात्मनः नीलस्य ऊरुवेगेन मन्दरो अपि अवशीर्यते । युधि राक्षसाः किम् पुनः॥ सदेवासुर यक्षेषु गन्धर्वोरगपक्षिषु मैन्दस्य द्विविदस्य प्रतियोद्धारं शंसत॥

The heroic son of Vali alone is enough to destroy all the Rakshasas led by him ( Ravana). The speed of the thighs of the great soul Panasa as well as Nila shatters the mount Mandara, what to speak of the Rakshasas in a war. Tell me who among Devas, Asuras, Yakshas, Gandharvas, Uragas and Pakshis can battle Mainda and Dvivida.

अश्विपुत्रौ महाभागौ वेतौ प्लवगसत्तमौ।
एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे ||17||
पितामहवरोत्सेकात् परमं दर्पमास्थितौ।
अमृतप्राशना वेतौ सर्ववानर सत्तमौ॥18||

स॥ अश्विपुत्रौ एतौ महाभागौ प्लवगसत्तमौ रणाजिरे एतयोः प्रतियोद्धारं न पश्यामि ॥ पितामहवरोत्सेकात् परमं दर्पं आस्थितौ एतौ वानरसत्तमौ अमृतपाशिनौ ॥

These two sons of Ashwini are outstanding , foremost among fighters. I do not see any one who can face them in a battle. With boon given by the creator, being very proud these two foremost among Vanaras consumed the nectar of immortality.

अश्विनोर्माननार्थं हि सर्वलोकपितामहः।
सर्वावध्यत्वमतुलं अनयोर्दत्तवान्पुरा॥19||
वरोत्सेकेन मत्तौ च प्रमथ्य महतीम् चमूम्।
सुराणाममृतं वीरौ पीतवन्तौ प्लवंगमौ॥20||
एतावेव हि संक्रुद्धौ सवाजिरथकुंजराम्।
लंकां नाशयितुं शक्ता सर्वे तिष्ठन्तु वानराः॥21||

स॥ पुरा सर्वलोकपितामहः अश्विनोः मानार्थं अनयोः अतुलं सर्व अवध्वत्वं दत्तवान् ॥वरोत्सेकेन मत्तौ च वीरौ प्लवंगमौ सुराणां महतीं चमूं प्रमथ्य अमृतं पीतवन्तौ ॥ संकृद्धौ एतावेव सवाजिरथकुंजरां लंकां नासयितुं शक्तौ । सर्वे वानराः तिष्टन्तु॥

Earlier the grand sire of all worlds has given Asvini's progeny immeasurable invulnerability to honor them . Armed with the boons vast armies of Suras have been defeated by the heroic Vanaras. And they drank the nectar of immortality. If these two become angry they can destroy Lanka along with all the elephants horses and chariots. All the Vanaras can stay.

मयैव निहता लंका दग्धा भस्मीकृता पुनः।
राजमार्गेषु सर्वत्र नाम विश्रावितं मया॥22||

स॥ लंका मयैव निहता पुनः भस्मीकृता राजमार्गेषु सर्वत्र मया नाम विस्रावितम् ॥

I have burnt Lanka and made my name known all over the royal paths.

जयत्यति बलो रामो लक्ष्मणस्य महाबलः।
राजा जयति सुग्रीवो राघवेणाधिपालितः॥23||
अहं कोसलराजस्य दासः पवनसंभवः।
हनुमानिति सर्वत्र नाम विश्रावितं मया॥24||

स॥ अतिबलः रामः जयति। महाबलः लक्ष्मणः च। राघवेण अभिपालितः राजा सुग्रीवः जयति । पवनसंभवः अहं कोसलराजस्य दासः। हनुमान् इति मया नाम विश्रावितम्॥

I announced that mighty Rama will triumph. So will mighty Lakshmana. Protected by Rama Sugriva will triumph. I am son of wind god and a servant of Rama. My name is Hanuman.

अशोकवनिका मध्ये रावणस्य दुरात्मनः।
अधस्ताच्छिंशुपावृक्षे साध्वी करुणमास्थिता॥25||
राक्षसीभि परिवृता शोकसन्तापकर्शिता।
मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा॥26||
अचिन्तयन्ती वैदेही रावणं बलदर्पितम्।

स॥ दुरात्मनः रावणस्य अशोकवनिकामध्ये शिंशुपावृक्षे अधस्तात् साध्वी राक्षसीभिः परिवृता शोकसंताप कर्शिता मेघलेखापरिवृता चंद्र लेखं इव निष्प्रभा बलदर्पितं रावणं अचिन्तयन्ती वैदेही करुणं आस्थिता॥

In the middle of the Ashoka grove of the evil minded Ravana, under the Simsupa tree , the pious lady surrounded by Rakshasa women, tormented by sorrow, without brightness looking like moon rays veiled by clouds, not caring for the glory of Ravana . is brooding over Rama only.

पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी॥27||
अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा।
अनन्यचित्ता रामे च पौलोमीव पुरन्दरे॥28||

स॥ पतिव्रता सुश्रोणी जानकी अवष्टब्धा शुभा वैदेही सर्वात्मना रामं अनुरक्ता पुरन्दरे पौलोमि इव रामे अनन्यचित्ता (अस्ति)||

The chaste woman of beautiful hips, Janaki though bound is wholly devoted to Rama only, like Poulomi is devoted to Indra.

तदेकवासः संवीता रजोध्वस्ता तथैव च।
शोकसन्ताप दीनांगी सीता भर्तृहिते रता॥29||

स॥ तदेकवाससंवीता रजॊध्वस्था शोकसंतापदीनांगी सीता भर्तृहिते रता ॥

Wearing a single piece of cloth, filled with dust, very sorrowful and piteous, Sita is desirous of only the welfare of her husband.

सा मया राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः।
राक्षसीभिर्विरूपाभिः दृष्टा हि प्रमदावने॥30||
एकवेणीधरा दीना भर्तृचिन्तापरायणा।
अथश्शया विवर्णांगी पद्मिनीव हिमागमे॥31||
रावणाद्विनिवृत्तार्था मर्तव्यकृत निश्चया।

स॥ विरूपाभिः राक्षसीभिः मुहुर्मुहुः तर्ज्यमाना ,दीना भर्तृचिन्तापरायणा अथः शय्या , हिमागमे पद्मिनीमिव विवर्णांगी, रावणात् विनिवृत्तार्था, मर्तव्यकृतनिश्चया सा मया राक्षसीमध्ये प्रमदावने दृष्टा॥

Thus Sita, who is again and again threatened by ugly looking Rakshasis, who is piteous and always thinking of her husband , who is sleeping on the ground, who is without luster like the lotus on the onset of winter , who has turned away from Ravana, who is set on giving up her life, who is in the pleasure garden in the middle of Rakshasa women, is seen by me.

कथंचिन् मृगशाबाक्षी विश्वास मुपपादिता॥32||
ततः संभाषिता चैव सर्वमर्थं च दर्शिता।
रामसुग्रीव सख्यं च श्रुत्वा प्रीतिमुपागता॥33||

स॥मृगशाबाक्षी कथंचित् उपपादिता ततः संभाषिता सर्वं अर्थं च दर्शिता रामसुग्रीवसख्यं च श्रुत्वा प्रीतिं उपागता॥

Somehow the doe eyed one has been given confidence, then spoke to. Hearing about the alliance of Rama and Sugriva gave her happiness.

नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा।
यन्नहन्ति दशग्रीवं स महात्मा कृतागसम्॥34||

स॥ महात्मा सा कृतागसम् दशग्रीवं न हन्ति इति यत् (तत्) नियतः समुदाचारः भर्तरि उत्तमा भक्तिः ॥

That the ten-headed one though having done harm is not killed , is because the chaste disciplined lady's high devotion to her husband.

निमित्तमात्रं रामस्तु वधे तस्य भविष्यति।
सा प्रकृत्यैव तन्वंगी तद्वियोगात् च कर्शिता॥35||
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता।

स॥ रामस्तु तस्य वधे निमित्तमात्रं भविष्यति। प्रकृत्यैव तन्वंगी तद्वियोगात् कर्शिता च सा प्रतिपत्पाठशीलस्य विद्येव तनुमतां गता।

Rama is there as the instrument of killing Ravana. Due to separation from her husband, the lady is with a thin body like the students on the first day of studies.

एवमास्ते महाभागा सीता शोकपरायणा।
यदत्र प्रतिकर्तव्यंतत् सर्वं उपपद्यताम्॥36||

स॥ महाभागा सीता अस्ते एवं शोकपरायणा । अत्र यत् प्रतिकर्तव्यं तत् सर्वं उपपद्यताम्॥

The noble lady is thus absorbed in grief. What action needs to be done by all that is to be proposed.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे एकोनषष्टितमस्सर्गः ||

Thus ends the fifty ninth Sarga of Sundarakanda in Ramayana the first poem ever composed in Sanskrit by the first poet sage Valmiki.

||om tat sat||